NAI SUBEH
देव पूजा विधि Part-12 लक्ष्मी-पूजन
आचमन प्राणायाम करके- देशकालौ सङ्कीत्र्य.. स्थिरलक्ष्मीप्राप्त्यर्थं श्रीमहालक्ष्मीप्रीत्यर्थं सर्वारिष्टनिवृत्तिपूर्वकसर्वाभीष्टफलप्राप्त्यर्थम् आयुरारोग्यैश्वर्याभिवृद्धîर्थं व्यापारे लाभार्थं च गणपतिनवग्रह- कलशादिपूजनपूर्वकं श्रीमहाकाली-महालक्ष्मी-महासरस्वती-लेखनी-कुबेरादीनां च पूजनं करिष्ये कहकर जल छोड़े। पýात् गणपति, कलश और नवग्रहादि का पूजन करके महालक्ष्मी का पूजन करें।
ध्यान-ॐ या सा पद्मासनस्थाविपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया।
या लक्ष्मीर्दिव्य- रूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्ल्ययुक्ता।।
आवाहन-ॐ सर्वलोकस्य जननीं शूलहस्तां त्रिलोचनाम्।
सर्वदेवमयीमीशां देवीमावाहयाम्यहम्।। दुर्गायै नमः, आवाहयामि।
आसन-ॐ तप्तकाझ्नवर्णाभं मुक्तामणिविराजितम्।
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम्।। आसनं समर्पयामि।
पाद्य- ॐ गङ्गादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम्।
पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते।। पाद्यं समर्पयामि।
अर्घ्य- ॐ अष्टगन्धसमायुक्तं स्वर्णपात्रप्रपूरितम्।
अघ्र्यं गृहाण मद्दत्तं महालक्ष्मि नमोऽस्तु ते।। अघ्र्यं समर्पयामि।
आचमन-ॐ सर्वलोकस्य या शक्तिब्र्रह्मविष्ण्वादिभिः स्तुता।
ददाम्याचमनं तस्यै महालक्ष्म्यै मनोहरम्।। आचमनं समर्पयामि।
स्नान-ॐ मन्दाकिन्याः समानीतैर्हेमाम्भोरुहवासितैः।
स्नानं कुरुष्व देवेशि! सलिलैý सुगन्धिभिः।। स्नानं समर्पयामि।
(दुग्ध, दधि, घृत, मधु, तथा शर्करास्नान विधि शालग्राम पूजन के अनुसार करायें।)
पञ्चामृतस्नान-ॐ पञ्चामृतसमायुक्तं जाह्नवी सलिलं शुभम्।
गृहाणविश्वजननि स्नानार्थं भक्तवत्सले!।। पंचामृतस्नानं समर्प0।
शुद्धोदकस्नान-ॐ तोयं तव महादेवि! कर्पूरागरुवासितम्।
तीर्थेभ्यः सुसमानीतं स्नानार्थं प्रतिगृह्यताम्।। शुद्धोदकस्नानं सम0।
वस्त्र-ॐ दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम्।
दीयमानं मया देवि! गृहाण जगदम्बिके!।। वस्त्रं समर्पयामि।
उपवस्त्र-ॐ कझ्ुकीमुपवस्त्रं च नानारत्नैः समन्वितम्।
गृहाण त्वं मया दत्तं मङ्ले जगदीश्वरि!।। उपवस्त्रं समर्पयामि।
मधुपर्क-ॐ कपिलं दधि कुन्देन्दुधवलं मधुसंयुतम्।
स्वर्णपात्र स्थितं देवि! मधुपर्कं गृहाण भोः।। मधुपर्कं समर्पयामि।
आभूषण-ॐ स्वभावसुन्दराङ्गायै नानादेवाश्रये शुभे!।
भूषणानि विचित्राणि कल्पयाम्यमरार्चिते!।। आभूषणं समर्पयामि।
गन्ध-ॐ श्रीखण्डागरुकर्पूरमृगनाभिसमन्वितम्।
विलेपनं गृहाणाशु नमोऽस्तु भक्तवत्सले!।। गन्धं समर्पयामि।
रक्तचंदन-ॐ रक्तचन्दनसम्मिश्रं पारिजातसमुद्भवम्।
मया दत्तं गृहाणाशु चन्दनं गन्धसंयुतम्।। रक्तचंदनं समर्पयामि।
सिन्दूर-ॐ सिन्दूरं रक्तवर्णञ्च सिन्दूरतिलकप्रिये!।
भक्तîा दत्तं मया देवि! सिन्दूरं प्रतिगृह्यताम्।। सिन्दूरं समर्पयामि।
कुङ्कघमं-ॐ कुङ्कघमं कामदं दिव्यं कुङ्कघमं कामरूपिणम्।
अखण्ड कामसौभाग्यं कुङ्कघमं प्रतिगृह्यताम्।। कुंकुमं समर्पयामि।
अक्षत-ॐ अक्षतान्निर्मलाछुद्धान् मुक्तामणिसमन्वितान्।
गृहाणेमान् महादेवि! देहि मे निर्मलां धियम्।। अक्षतान् समर्पयामि।
पुष्प- ॐ मन्दारपारिजाताद्याः पाटली केतकी तथा।
मरुवा मोगरं चैव गृहाणाशु नमो नमः।। पुष्पाणि समर्पयामि।
पुष्पमाला-ॐ पद्मशùजपापुष्पैः शतपत्रौर्विचित्रिताम्।
पुष्पमालां प्रयच्छामि गृहाण त्वं सुरेश्वरि!।। पुष्पमाल्यां सम0।
दूर्वा- ॐविष्ण्वादिसर्वदेवानां प्रियां सर्वसुशोभनाम्।
क्षीरसागरसम्भूते! दूर्वां स्वीकुरु सर्वदा।। दुर्वां समर्पयामि।
सुगन्धतैल-ॐ स्नेहं गृहाण स्नेहेन लोकेश्वरि ! दयानिधे !।
सर्वलोकस्य जननि ! ददामि स्नेहमुत्तमम्।। सुगन्धतैलं समर्पयामि।
अथाङ्पूजा।
ॐ चपलायै नमः पादौ पूजयामि। ॐ चझ्लायै नमः जानुनी पूजयामि। ॐ कमलायै नमः कटिं (कमर) पूजयामि। ॐ कात्यायिन्यै नमः नाभिं (नाभि) पूजयामि। ॐ जगन्मात्रो नमः जठरं पूजयामि। ॐविश्ववल्लभायै नमः वक्षस्थलं पूजयामि। ॐ कमलवासिन्यै नमः भुजौ (दोनों भुजायें) पूजयामि। ॐ पद्मकमलायै नमः मुखं (मुख) पूजयामि। ॐ कमलपत्राक्ष्यै नमः नैत्रात्रायं (तीनों नेत्रा) पूजयामि। ॐ श्रियै नमः शिरः (मस्तक) पूजयामि। अंग पूजा समाप्त।
पूर्वादिक्रम से आठों दिशाओं में अष्टसिद्धि की पूजा करें-ॐ अणिम्ने नमः। ॐ महिम्ने नमः। ॐ गरिम्णे नमः। ॐ लघिम्ने नमः। ॐ प्राप्त्यै नमः। ॐ प्राकाम्यै नमः। ॐ ईशितायै नमः। ॐ वशितायै नमः।। इति अष्टसिद्धिपूजन।
उसी प्रकार पूर्वादिक्रम से अष्ट लक्ष्मी पूजन ॐ आद्यलक्ष्म्यै नमः। ॐ विद्यालक्ष्म्यै नमः। ॐ सौभाग्यलक्ष्म्यै नमः। ॐ अमृतलक्ष्म्यै नमः। ॐ कामलक्ष्म्यै नमः। ॐ सत्यलक्ष्म्यै नमः। ॐ भौगलक्ष्म्यै नमः। ॐ योगलक्ष्म्यै नमः।। इति अष्टलक्ष्मीपूजन।
धूप-ॐ वनस्पतिरसोत्पन्नो गन्धाढ्यः सुमनोहरः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्।। इति अष्टलक्ष्मीपूजन।
दीप- ॐ कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम्।
तमोनाशकरं दीपं गृहाण परमेश्रि।। दीपं दर्शयामि।
नैवेद्य- ॐ नैवेद्यं गृह्यतां देवि भक्ष्यभोज्यसमन्वितम्।
षड्रसैरन्वितं दिव्यं लक्ष्मि देवि नमोऽस्तु ते।।
नैवेद्यं निवेदयामि। मध्ये पानीयं जल समर्पयामि।
ऋतुफल-ॐ फलेन फलितं सर्वं त्रौलोक्यं सचराचरम्।
तस्मात्फलप्रदानेन पूर्णाः सन्तु मनोरथाः।। ऋतुफलं समर्पयामि।
आचमन-ॐ शीतलं निर्मलं तोयं कर्पूरेण सुवासितम्।
आचम्यतामिदं देवि प्रसीद त्वं महेश्वरि!।। आचमनीयं जलं सम0।
अखण्डऋतुफल-ॐ इदं फलं मयाऽनीतं सरसं च निवेदितम्।
गृहाण परमेशानि प्रसीद प्रणमाम्यहम्।। अखण्डऋतुफलं सम0।
ताम्बूलपूगीफल-ॐ एलालवङ्कर्पूरनागपत्रादिभिर्युतम्।
पूगीफलेन संयुक्तं ताम्बूलं प्रतिगृह्यताम्।। ताम्बूलपूगीफलं सम0।
दक्षिणा-ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे।। द्रव्यदक्षिणां सम0।
प्रार्थना
ॐ सुरासुरेन्द्रादिकिरीटमौक्तिकैर्युक्तं सदा यत्तवपादपङ्कजम्। परावरं पातु वरं सुमङ्लं नमामि भक्तîा तव कामसिद्धये।।
भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनि!।
सुपूजिता प्रसन्नस्यान्महालक्ष्मि! नमोऽस्तु ते।।
नमस्ते सर्वदेवानां वरदासि हरिप्रिये।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्चनात्।।